Saturday 23 July 2016

श्रीदत्त अथर्वशीर्ष

____
॥ ॐ नमो भगवते दत्तात्रेयाय अवधूताय दिगम्बरायविधिहरिहराय आदितत्त्वाय आदिशक्तये ॥ १॥
त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥ २॥
त्वं विश्वात्मकः त्वं विश्वाधारः विश्वेशः विश्वनाथः त्वं विश्वनाटकसूत्रधारः त्वमेव केवलं कर्तासि त्वं अकर्तासि च नित्यम् ॥ ३॥
त्वं आनन्दमयः ध्यानगम्यः त्वं आत्मानन्दः त्वं परमानन्दः त्वं सच्चिदानन्दःत्वमेव चैतन्यः चैतन्यदत्तात्रेयः ॐ चैतन्यदत्तात्रेयाय नमः ॥ ४॥
त्वं भक्तवत्सलः भक्ततारकः भक्तरक्षकः दयाघनः भजनप्रियः त्वं पतितपावनः करुणाकरः भवभयहरः ॥ ५॥
त्वं भक्तकारणसम्भूतःअत्रिसुतः अनसूयात्मजः त्वं श्रीपादश्रीवल्लभः त्वं गाणगग्रामनिवासीश्रीमन्नृसिंहसरस्वती त्वं श्रीनृसिंहभानः अक्कलकोटनिवासी श्रीस्वामीसमर्थः त्वं करवीरनिवासी परमसद्गुरु श्रीकृष्णसरस्वती त्वं श्रीसद्गुरु माधवसरस्वती ॥ ६॥
त्वं स्मर्तृगामी श्रीगुरूदत्तः शरणागतोऽस्मि त्वाम् ।दीने आर्ते मयि दयां कुरु तव एकमात्रदृष्टिक्षेपः दुरितक्षयकारकः ।हे भगवन्, वरददत्तात्रेय,मामुद्धर, मामुद्धर, मामुद्धर इति प्रार्थयामि ।ॐ द्रां दत्तात्रेयाय नमः ॥ ७॥
॥ ॐ दिगम्बराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् 

No comments:

Post a Comment